Thursday, September 13, 2012

श्रीमच्छङ्करभगवत्पादविरचितं गङ्गास्तोत्रम्


( ஶ்ரீ ஶங்கர பகவத்பாதர் இயற்றிய கங்காஸ்தோத்ரம்)

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवन-तारिणि तरल-तरङ्गे ।
शङ्कर-मौलि-विहारिणि विमले मम मतिर् आस्तां तव पद-कमले ॥

भागिरथि सुख-दायिनि मातस् तव जल-महिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि माम् अज्ञानम् ॥

हरि-पद-पाद्य-तरङ्गिणि गङ्गे हिम-विधु-मुक्ता-धवल-तरङ्गे ।
दूरीकुरु मम दुष्कृति-भारं कुरु कृपया भव-सागर-पारम् ॥

तव जलम् अमलं येन निपीतं परम-पदं खलु तेन गृहीतम् ।
मातर् गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥

पतितोद्धारिणि जाह्नवि गङ्गे खण्डित-गिरि-वर-मण्डित-भङ्गे ।
भीष्म-जननि हे मुनि-वर-कन्ये पतित-निवारिणि त्रिभुवन-धन्ये ॥

कल्प-लताम् इव फलदाम् लोके प्रणमति यस् त्वां न पतति शोके ।
पारावार-विहारिणि गङ्गे विमुख-युवति-कृत-तरलापाङ्गे ॥

तव चेन् मातः स्रोतः-स्नातः पुनर् अपि जठरे सोऽपि न जातः ।
नरक-निवारिणि जाह्नवि गङ्गे कलुष-विनाशिनि महिमोत्तुङ्गे ॥

पुनर् असद्-अङ्गे पुण्य-तरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्र-मुकुट-मणि-राजित-चरणे सुखदे शुभदे भृत्य-शरण्ये ॥

रोगं शोकं तापं पापं हर मे भगवति कुमति-कलापम् ।
त्रिभुवन-सारे वसुधा-हारे त्वम् असि गतिर् मम खलु संसारे ॥

अलकानन्दे परमानन्दे कुरु करुणामयि कातर-वन्द्ये ।
तव तट-निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥

वरम् इह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिः कुलीनः ॥

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनि-वर-कन्ये ।
गङ्गा-स्तवम् इमम् अमलं नित्यं पठति नरो यः स जयति सत्यम् ॥

येषां हृदये गङ्गा-भक्तिस् तेषां भवति सदा सुख-मुक्तिः ।
मधुर-मनोहर-पज्झटिकाभिः परमानन्द-कलित-ललिताभिः ॥

गङ्गास्तोत्रम् इदं भवसारं वाञ्छितफलदं विमलं सारम् ।
शङ्कर-सेवक-शङ्कर-रचितं पठति च विनयीदम् इति समाप्तम् ॥

No comments:

Post a Comment